|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.228. अध्यायः 228
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
परमेश्वरेण पार्वतींप्रति प्राणिनां फलनित्पत्तौ दैवपुरुषकारयोः परस्परसापेक्षत्वेन साधनत्वोक्तिः॥ 1 ॥ तथाऽण्डजरायुजानां गर्भप्रवेशादिप्रकारकथनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्सर्वभूतेश लोके कर्मक्रियापथे।
दैवात्प्रवर्तते सर्वमिति केचिद्व्यवस्थिताः॥ 13-228-1(90336)
अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम्।
पक्षभेदे द्विधा चास्मिन्संशयस्थं मनो मम।
तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे॥ 13-228-2(90337)
महेश्वर उवाच। 13-228-3x(7606)
तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता।
तदेवं कुरुते कर्म लोके देवि शुभाशुभम्॥ 13-228-3(90338)
लक्ष्यते द्विविधं कर्म मानुषेष्वेव तच्छृणु।
पुराकृतं तयोरेकमैहिकं त्वितरस्तथा॥ 13-228-4(90339)
अदृष्टपूर्वं यत्कर्म तद्दैवमिति लक्ष्यते।
विहीनं दृष्टकरणं तन्मानुषमिति स्मृतम्॥ 13-228-5(90340)
मानुषं तु क्रियामात्रं दैवात्सम्भवते फलम्।
एवं तदुभयं कर्म मानुषं विद्धि तन्नृषु॥ 13-228-6(90341)
लौकिकं तु प्रवक्ष्यामि दैवमानुषनिर्मितम्।
कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा॥ 13-228-7(90342)
रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम्।
दैवादसिद्धिश्च भवेद्दुष्कृतं चास्ति पौरुषे॥ 13-228-8(90343)
सुयत्नाल्लभ्यते कीर्तिर्दुर्यत्नादयशस्तथा।
एवं लोकगतिर्देवि आदिप्रभृति वर्तते॥ 13-228-9(90344)
उमोवाच। 13-228-10x(7607)
भगवन्सर्वलोकेश सुरासुरनमस्कृत।
कथमात्मा सदा गर्भं संविशेष्कर्मकारणात्।
तन्मे वद महादेव तद्धि गुह्यं परं मतम्॥ 13-228-10(90345)
महेश्वर उवाच। 13-228-11x(7608)
शृणु भामिनि तत्सर्वं गुह्यानां परमं प्रिये।
देवगुह्यादपि परमात्मगुह्यमिति स्मृतम्॥ 13-228-11(90346)
देवासुरास्तन्न विदुरात्मनो हि गतागतम्।
अदृश्यो हि सदैवात्मा जनैः सौक्ष्म्यान्निराश्रयात्॥ 13-228-12(90347)
अतिमायेति मायानामात्ममाया सेदष्यते।
सोयं चतुर्विधां जातिं संविशत्यात्ममायया।
मैथुनं शोणितं बीजं दैवमेवात्र कारणम्॥ 13-228-13(90348)
बीजशोणितसंयोगे यदा सम्भवते शुभे।
तदाऽऽत्मा विशते गर्भमेवमण्डजरायुजे॥ 13-228-14(90349)
एवं संयोगकाले तु आत्मा गर्भत्वमेयिवान्॥ 13-228-15(90350)
कलिलाज्जायते पिण्डं पिण्डात्पेश्यर्बुदं भवेत्।
व्यक्तिभावगतं चैव कर्म त्वाश्रयते क्रमात्॥ 13-228-16(90351)
एवं विवर्धमानेन कर्मात्मा सह वर्धते।
एवमात्मगतिं विद्धि यन्मां पृच्छसि सुप्रभे॥ 13-228-17(90352)
रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम्॥ 13-228-18(90353)
काले वृष्टिः सुवापं च प्ररोहः पक्तिरेव च।
एवमादि तु यच्चान्यत्तद्दैवतमिति स्मृतम्॥ 13-228-19(90354)
पञ्चभूतस्थितिश्चैव ज्योतिषामयनं तथा।
अबुद्धिगम्यं यन्मर्त्यैर्हेतुभिर्वा न विद्यते॥ 13-228-20(90355)
तादृशं कारणं दैवं शुभं वा यदि वेतरत्।
यादृशं चात्मना शक्यं तत्पौरुषमिति स्मृतम्॥ 13-228-21(90356)
केवलं फलनिष्पत्तिरेकेन तु न शक्यते।
पौरुषेणैव दैवेनि युगपद्ग्रथितं प्रिये।
तयोः समाहितं कर्म शीतोष्णं युगपत्तथा॥ 13-228-22(90357)
पौरुषं तु तयोः पूर्वमारब्धव्यं विजानता।
आत्मना तु न शक्यं हि न तथा कीर्तिमाप्नुयात्॥ 13-228-23(90358)
खननान्मथनाल्लोके जलाग्निप्रापणं यथा।
तथा पुरुषकारे तु दैवसम्पत्समाहिता॥ 13-228-24(90359)
नरस्याकुर्वतः कर्म दैवसम्पन्न लभ्यते।
तस्मात्सर्वसमारम्भो दैवमानुषनिर्मितः॥ 13-228-25(90360)
असुरा राक्षसाश्चैव मन्यन्ते लोकनाशनाः।
पश्यन्ते न च ते पापाः केवलं मांसभक्षणाः॥ 13-228-26(90361)
प्रच्छादितं हि तत्सर्वं गूढमाया हि देवताः।
तदहं ते प्रवक्ष्यामि देवि गुह्यं पुरस्सरम्॥ 13-228-27(90362)
आदिकाले नराः सर्वे कृत्वा कर्म शुभाशुभम्।
भुञ्जते पश्यमानास्ते वृत्तान्तं लोकयोर्द्वयोः॥ 13-228-28(90363)
यथैवात्मकृतं विद्युर्देशान्तरगता नराः।
विद्युस्तथैवान्तकाले सुकृतं पौर्वदैहिकम्॥ 13-228-29(90364)
एवं व्यवस्थिते लोके सर्वे धर्मरताऽभवन्।
अचिरेणैव कालेन स्वर्गः सम्पूरितस्तदा॥ 13-228-30(90365)
देवानामपि सम्बाधं दृष्ट्वा ब्रह्माऽप्यचिन्तयत्।
सञ्चरन्ते कथं स्वर्गं मानुषाः प्रविशन्ति हि॥ 13-228-31(90366)
इत्येवमनुचिन्त्यैव मानुषान्सममोहयत्।
तदाप्रभृति ते मर्त्या न विदुस्ते पुराकृतम्॥ 13-228-32(90367)
कामक्रोधौ तु तत्काले मानुषेष्ववपातयत्।
ताभ्यामभिहता मर्त्याः स्वर्गलोकं न पेदिरे॥ 13-228-33(90368)
पुराकृतस्याविज्ञानात्कामक्रोधाभिपीडिताः।
नैतदस्तीति मन्वाना विकारंश्चक्रिरे पुनः॥ 13-228-34(90369)
अकार्यादिमहादोषानाहरन्त्यात्मकारणात्।
विस्मृत्य धर्मकार्याणि परलोकभयं तदा॥ 13-228-35(90370)
एवं व्यवस्थिते लोके कश्मलं समपद्यत।
लोकानां चैव देवानां क्षयायैव तथा प्रिये।
नरकाः पूरिताश्चासन्प्राणिभिः पापकारिभिः॥ 13-228-36(90371)
पुनरेव तु तान्दृष्ट्वा लोककर्ता पितामहः।
अचिन्तयत्तमेवार्थं लोकानां हितकारणात्।
समत्वेन कथं लोके वर्तेतेति मुहुर्मुहुः॥ 13-228-37(90372)
चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये।
अकरोज्ज्ञानदृश्यं तत्परलोकं न चक्षुषा॥ 13-228-38(90373)
उमोवाच। 13-228-39x(7609)
भगवन्मृतमात्रस्तु योयं जात इति स्मृतः।
तथैव दृश्यते जातस्तत्रात्मा तु कथं भवेत्॥ 13-228-39(90374)
गर्भादावेव संविष्ट आत्मा तु भगवन्मम।
एष मे संशयो देव तन्मे छेत्तुं त्वमर्हसि॥ 13-228-40(90375)
महेश्वर उवाच। 13-228-41x(7610)
तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता। 13-228-41(90376)
अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः।
पुनरन्यच्छरीरं तत्प्रविश्य भुवि जायते।
तत्वविन्नैव सर्वस्तु दैवयोगस्तु सम्भवेत्॥ 13-228-42(90377)
सूतिकाया हितार्थं च मोहनार्थं च देहिनाम्।
समकर्मविधानत्वादित्येवं विद्धि शोभने॥ 13-228-43(90378)
काङ्क्षमाणास्तु नरकं भुक्त्वा केचित्प्रयान्ति हि।
मायासंयामिका नाम यज्जन्ममरणान्तरे।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि॥ 13-228-44(90379)
उमोवाच। 13-228-45x(7611)
भगवन्सर्वलोकेश लोकनाथ वृषध्वज।
नास्त्यात्मा कर्मभोक्तेति मृतो जन्तुर्न जायते॥ 13-228-45(90380)
स्वभावाज्जायते सर्वं यथा वृक्षफलं तथा।
यथोर्मयः सम्भवन्ति तथैव जगदाकृतिः॥ 13-228-46(90381)
तपोदानानि यत्कर्म तत्र तद्दृश्यते वृथा।
नास्ति पौनर्भवं जन्म इति केचिद्व्यवस्थिताः॥ 13-228-47(90382)
परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात्।
तत्सर्वं नास्तिनास्तीति संशयस्थास्तथा परे॥ 13-228-48(90383)
पक्षभेदान्तरे चास्मिंस्तत्वं मे वक्तुमर्हसि।
उक्तं भगवता यत्तु तत्तु लोकस्य संस्थितिः॥ 13-228-49(90384)
प्रश्नमेतत्तु पृच्छत्या रुद्राण्या परिषत्तदा।
कौतूहलयुता श्रोतुं समाहितमनाऽभवत्॥ 13-228-50(90385)
महेश्वर उवाच। 13-228-51x(7612)
नैतदस्ति महाभागे यद्वदन्तीह नास्तिकाः।
एतदेवाभिशस्तानां श्रुतविद्वेषिणां मतम्॥ 13-228-51(90386)
सर्वमर्थं श्रुतं दृष्टं यत्प्रागुक्तं मया तव।
तदाप्रभृति मर्त्यानां श्रुतमाश्रित्य पण्डिताः॥ 13-228-52(90387)
कामान्संछिद्य परिगान्धृत्या वै परमासिना।
अभियान्त्येव ते स्वर्गं पश्यन्तः कर्मणः पलम्॥ 13-228-53(90388)
एवं श्रद्धाफलं लोके परतः सुमहत्फलम्।
बुद्धिः श्रद्धा च विनयः कारणानि हितैषिणाम्॥ 13-228-54(90389)
तस्मात्स्वर्गाभिगन्तारः कतिचित्त्वभवन्नराः।
अन्ये करणहीनत्वान्नास्तिक्यं भावमाश्रिताः॥ 13-228-55(90390)
श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः।
निष्क्रियास्तु निरन्नादाः पतन्त्येवाधमां गतिम्॥ 13-228-56(90391)
नास्त्यस्तीति पुनर्जन्म कवयोऽप्यत्र मोहिताः।
नाधिगच्छन्ति तन्नित्यं हेतुवादशतैरपि॥ 13-228-57(90392)
एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः।
किंपुनर्मानवैर्लोके ज्ञातुकामैः कुबुद्धिभिः॥ 13-228-58(90393)
केवलं श्रद्धया देवि श्रुतमात्मनिविष्टया।
ततोस्तीऽत्येव मन्तव्यं तथा हितमवाप्नुयात्॥ 13-228-59(90394)
दैवगुह्येषु चान्येषु हेतुर्देवि निरर्थकः।
बधिरान्धवदेवात्र वर्तितव्यं हितैषिणा।
एतत्ते कथितं देवि ऋषिगुह्यं प्रजाहितम्॥ ॥ 13-228-60(90395)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः॥ 228 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|